| YouTube Channel

अगस्त्यः अगस्त्यवटः अगस्त्यसंहिता (agastyaH agastyavaTaH agastyasaMhitA)

 
E Bharati Sampat
Sanskrit
(पुं) अगं विन्ध्याचलं स्त्यायति स्तभ्नाति अग+स्त्यै(शब्दसङ्घातयो:)+क:। ‘आतोऽनुपसर्गे कः’ ३.२.३। १. अगस्त्यमुनिः, कुम्भसम्भवः। ‘अगस्त्यः कुम्भसम्भवः’ अमरः। ‘तयोरादित्ययोः सत्रे दृष्ट्वाप्सरसमुर्वशीम् रेतश्चस्कन्द तत्कुम्भे न्यपतद् वाशतीवरे तेनैव मुहूर्तेन वीर्यवन्तौ तपस्विनौ स्थले वशिष्ठस्तु सम्बभूवर्षिसत्तमः। कुम्भे त्वगस्त्यः सम्भूतो जले मत्स्यो महाद्युतिः’ पुरा०। अष्टगोत्रप्रवर्तकेषु अष्टमः। ‘वशिष्ठकश्यपागस्त्याः ऋषयो गोत्रकारकाः’ कल्पद्रु०। ‘अगस्त्याचरितामाशामनाशास्य जयो ययौ’ रघुः४.४४। २. बकपुष्पवृक्षः, अतसीवृक्षः ‘अगस्त्यस्तु मुनिद्रुमः’ कल्पद्रु०। ३.नक्षत्रभेदः। ‘अगस्त्यो दक्षिणामाशामाश्रित्य नभसि स्थितः’ ब्रह्मपु०। ‘अगस्त्यचिह्नादयनात् समीपं दिगुत्तरा’ रघुः१६.४४। (पु) हिमालयस्थं पुण्यक्षेत्रम् (स्त्री) अगस्त्यमुनिनिर्मितं रामचन्द्रविष्णुवामनादिभगवत्पूजाशास्त्रम्